ऑनलाइन-परीक्षायाः नियमाः / Instruction for Online Examination April-2023


ऑनलाइन-परीक्षायाः नियमाः

1) सामान्यसूचना

1. परीक्षा वर्षे त्रिवारम् आयोजिता भवति।

2. परीक्षा केवलम् ऑनलाइन एव भवति।

3. परीक्षाः अप्रैलमासे अगस्तमासे दिसम्बरमासे च भवन्ति। अभ्यर्थी/अभ्यर्थिनी स्वपरीक्षानुसारम् एतासु परीक्षासु यदा कदापि उपस्थितः/उपस्थिता भवितुं शक्नोति।

4. पात्रता – यः अभ्यर्थी/या अभ्यर्थिनी सर्वान् चलचित्रपाठान् दृष्ट्वा प्रश्नान् च समाप्य 10 श्रेणीषु 6 अथवा 6 तः अधिकां श्रेणीं प्राप्तवान्/प्राप्तवती चेदेव सः/सा परीक्षां लेखितुं शक्नोति। “Progress Report” इत्यत्र नोदनं कृत्वा स्वीयां श्रेणीं ज्ञातुं शक्नोति।

5. भवान्/भवती परीक्षासमये कदाचिदपि कस्यचिदपि प्रश्नस्य समीक्षां कर्तुं शक्नोति पुनः द्रष्टुं च शक्नोति।

6. बहुषु पाठ्यक्रमेषु पञ्जीकृतैः छात्रैः प्रत्येकं स्तरे एका एव परीक्षा लेखनीया। (योगः/आयुर्वेदः/गीता/वेदान्तः इत्यादि)

7. एकवारं परीक्षा आरब्धा चेत् 90 निमेषाभ्यन्तरे परीक्षा समापनीया एव अन्यथा संविधाद्वारा स्वतः एव समापयिष्यते।

8. अशुद्धस्य उत्तरस्य कृते नकारात्मकः अङ्कः नास्ति।

9. परीक्षापरिणामः परीक्षायाः समाप्तेः समनन्तरम् एव द्रष्टुं शक्यते।

10. यः/या 40%तः न्यूनान् अङ्कान् प्राप्तवान्/प्राप्तवती सः/सा आगामिन्योः द्वयोः परीक्षयोः केवलम् एकवारम् एव पुनः परीक्षां लेखितुं शक्नोति।


2) परीक्षादिनाङ्कः अन्यविवरणञ्च

1. दिनाङ्कः : 03-डिसेंबर्-2023 (00:00 तः IST 22:30 पर्यन्तं IST)
2. परीक्षानिमित्तं 90 निमेषाः (सार्ध-एकघण्टा) निर्धारिताः।
3. आहत्य 50 विकल्पात्मकाः प्रश्नाः भविष्यन्ति।
4. विषयाः -
* आयुर्वेदस्य भाषा – प्रथमः द्वितीयः तृतीयः चतुर्थः च भागाः ।
* योगस्य भाषा - प्रथमः द्वितीयः तृतीयः चतुर्थः च भागाः ।
* वेदान्तस्य भाषा - प्रथमः द्वितीयः तृतीयः चतुर्थः च भागाः ।
* गीतायाः भाषा - प्रथमः द्वितीयः तृतीयः चतुर्थः च भागाः ।


(शुभमस्तु)